अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः वनौषधिवर्गः 2.4.10.2.2 अर्थः - वृक्षमूलमारभ्य शाखावधिभागः
स्कन्धो भुजशिरोंऽसोऽस्त्री सन्धी तस्यैव जत्रुणी मनुष्यवर्गः 2.6.78.2.1 अर्थः - भुजशिरः
बुधवृद्धौ पण्डितेऽपि स्कन्धः समुदयेऽपि च नानार्थवर्गः 3.3.100.2.2 अर्थः - समुदायः