अमरकोषसम्पद्

         

अव्ययवर्गः 3.4.23

एतर्हि संप्रतीदानीमधुना साम्प्रतं तथा
दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः

एतर्हि (अव्य) = अस्मिन्काले. 3.4.23.1.1

सम्प्रति (अव्य) = अस्मिन्काले. 3.4.23.1.2

इदानीम् (अव्य) = अस्मिन्काले. 3.4.23.1.3

अधुना (अव्य) = अस्मिन्काले. 3.4.23.1.4

साम्प्रतम् (अव्य) = अस्मिन्काले. 3.4.23.1.5

प्राक् (अव्य) = पूर्वदिग्देशकालाः. 3.4.23.2.1

उदक् (अव्य) = उत्तरदिग्देशकालाः. 3.4.23.2.2

प्रत्यक् (अव्य) = पश्चिमदिग्देशकालाः. 3.4.23.2.3

अवाक् (अव्य) = दक्षिणदिग्देशकालाः. 3.4.23.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue