पारावारे परार्वाची तीरे पात्रं तदन्तरम् वारिवर्गः 1.10.8.1.5 अर्थः - तडमध्यवर्तिप्रवाहः
हव्यकव्ये दैवपित्र्ये अन्ने पात्रं स्रुवादिकम् ब्रह्मवर्गः 2.7.24.2.3 अर्थः - स्रुवादियज्ञपात्राणि
सर्वमावपनं भाण्डं पात्रामत्रं च भाजनम् वैश्यवर्गः 2.9.33.2.3 अर्थः - पात्रम्
योग्यभाजनयोः पात्रं पत्रं वाहनपक्षयोः नानार्थवर्गः 3.3.179.2.1 अर्थः - योग्यः